वांछित मन्त्र चुनें

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः । अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥

अंग्रेज़ी लिप्यंतरण

agniṁ viśa īḻate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ | agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā ||

पद पाठ

अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः । अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥ १०.८०.६

ऋग्वेद » मण्डल:10» सूक्त:80» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:15» मन्त्र:6 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मानुषीः) मनुष्यसम्बन्धी (याः) जो (विशः) प्रजाएँ हैं, वे (अग्निम्) परमात्मा की (ईडते) स्तुति करती हैं (नहुषः-मनुषः-विजाताः) बन्धन दग्ध करनेवाले परम मननशील ऋषि के विशिष्ट उपदेश से प्रसिद्धि को प्राप्त (प्रजाः) प्रजाएँ (अग्निम्) परमात्मा को आश्रित करती हैं (अग्निः) परमात्मा (ऋतस्य पथ्याम्) ज्ञानमय वेद की हितकारी (गान्धर्वीम्) वाणी का उपदेश करता है (अग्नेः) परमात्मा के (गव्यूतिः) जीवनमार्ग की पद्धति (घृते-आनिषत्ता) उसके तेज में भलीभाँति नियत है ॥६॥
भावार्थभाषाः - मनुष्यप्रजाएँ परमात्मा की स्तुति करें, बन्धन के छुड़ानेवाले ऋषि के उपदेश से उत्तम प्रजाएँ बनकर परमात्मा को प्राप्त होती हैं तथा उसकी कल्याणकारी वेदवाणी जीवनमार्ग दर्शाती है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मानुषीः-याः-विशः-अग्निम्-ईडते) मनुष्यसम्बन्धिन्यो याः प्रजाः सन्ति ताः परमात्मानं स्तुवन्ति (नहुषः-मनुषः-विजाताः) बन्धनदग्धुः परममननशीलादृषेर्विशिष्टोपदेशात् प्रसिद्धिं प्राप्ता या प्रजाः (अग्निम्) परमात्मानमाश्रयन्ति (अग्निः) परमात्मा (ऋतस्य पथ्यां गान्धर्वीम्) ज्ञानमयस्य वेदस्य हितकरीं वाचमुपदिशति (अग्नेः-गव्यूतिः-घृते-आनिषत्ता) परमात्मन-स्तेजसि जीवनमार्गपद्धतिः समन्तात् तत्र नियता भवति ॥६॥